ओजस्वी वाणी, वाक् सिद्धि, विद्या - बुद्धि की प्राप्ति के लिए नित्य विश्वविजय सरस्वती कवच का पाठ करें ।।


ओजस्वी वाणी, वाक् सिद्धि, विद्या - बुद्धि की प्राप्ति के लिए नित्य विश्वविजय सरस्वती  कवच का पाठ करें ।।

जय भगवती 

विश्वविजय सरस्वती कवच 
 ॥ ध्यान ॥ 
सरस्वतीं शुक्लवर्णां सस्मितां सुमनोहराम् । कोटिचन्द्रप्रभाजुष्टपुष्टश्रीयुक्तविग्रहाम् ॥ 
वह्निशुद्धांशुकाधानां सस्मितां सुमनोहराम् । 
रत्नसारेन्द्र खचितवरभूषणभूषिताम् ॥ 
सुपूजितां सुरगणैर्ब्रह्मविष्णुशिवादिभिः ।
वन्दे भक्त्या वन्दिता तां मुनीन्द्रमनुमानवैः ॥ 

॥ मन्त्र ॥ 
” श्रीं ह्रीं सरस्वत्यै स्वाहा ॥” 
॥ ब्रह्मोवाच ॥ 
श्रृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम् । 
श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम् ॥ 
उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने । 
रासेश्वरेण विभुना वै रासमण्डले ॥ 
अतीव गोपनीयं च कल्पवृक्षसमं परम् । 
अश्रुताद्भुतमन्त्राणां समूहैश्च समन्वितम् ॥ 
यद् धृत्वा भगवाञ्छुक्रः सर्वदैत्येषु पूजितः । 
यद् धृत्वा पठनाद् ब्रह्मन् बुद्धिमांश्च बृहस्पतिः ॥ पठणाद्धारणाद्वाग्मी कवीन्द्रो वाल्मिको मुनिः । 
स्वायम्भुवो मनुश्चैव यद् धृत्वा सर्वपूजितः ॥ 
कणादो गौतमः कण्वः पाणिनीः शाकटायनः। 
ग्रन्थं चकार यद् धृत्वा दक्षः कात्यायनः स्वयम् ॥ 
धृत्वा वेदविभागं च पुराणान्यखिलानि च । 
चकार लीलामात्रेण कृष्णद्वैपायनः स्वयम् ॥ 
शातातपश्च संवर्तो वसिष्ठश्च पराशरः ।
यद् धृत्वा पठनाद् ग्रन्थं याज्ञवल्क्यश्चकार सः ॥ 
ऋष्यशृङ्गो भरद्वाजश्चास्तीको देवलस्तथा । 
जैगीषव्योऽथ जाबालिर्यद् धृत्वा सर्वपूजिताः ॥ 
॥ मूल-पाठ ॥ 
कचवस्यास्य विप्रेन्द्र ऋषिरेष प्रजापतिः। 
स्वयं बृहतीच्छन्दो देवता शारदाम्बिका ॥
 सर्वतत्त्वपरिज्ञाने सर्वार्थसाधनेषु च । 
कवितासु च सर्वासु विनियोगः प्रकीर्तितः ॥
श्रीं ह्रीं सरस्वत्यै स्वाहा शिरो मे पातु सर्वत:।
श्रीं वाग्देवतायै स्वाहा भालं मे सर्वदावतु।।
ऊं सरस्वत्यै स्वाहेति श्रोत्र पातु निरन्तरम्।
ऊं श्रीं ह्रीं भारत्यै स्वाहा नेत्रयुग्मं सदावतु।।
ऐं ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वतोवतु।
ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा ओष्ठं सदावतु।।
ऊं श्रीं ह्रीं ब्राह्मयै स्वाहेति दन्तपंक्ती: सदावतु।
ऐमित्येकाक्षरो मन्त्रो मम कण्ठं सदावतु।।
ऊं श्रीं ह्रीं पातु मे ग्रीवां स्कन्धं मे श्रीं सदावतु।
श्रीं विद्याधिष्ठातृदेव्यै स्वाहा वक्ष: सदावतु।।
ऊं ह्रीं विद्यास्वरुपायै स्वाहा मे पातु नाभिकाम्।
ऊं ह्रीं ह्रीं वाण्यै स्वाहेति मम पृष्ठं सदावतु।।
ऊं सर्ववर्णात्मिकायै पादयुग्मं सदावतु।
ऊं रागधिष्ठातृदेव्यै सर्वांगं मे सदावतु।।
ऊं सर्वकण्ठवासिन्यै स्वाहा प्राच्यां सदावतु।
ऊं ह्रीं जिह्वाग्रवासिन्यै स्वाहाग्निदिशि रक्षतु।।
ऊं ऐं ह्रीं श्रीं क्लीं सरस्वत्यै बुधजनन्यै स्वाहा।
सततं मन्त्रराजोऽयं दक्षिणे मां सदावतु।।
ऊं ह्रीं श्रीं त्र्यक्षरो मन्त्रो नैर्ऋत्यां मे सदावतु।
कविजिह्वाग्रवासिन्यै स्वाहा मां वारुणेऽवतु।।
ऊं सदाम्बिकायै स्वाहा वायव्ये मां सदावतु।
ऊं गद्यपद्यवासिन्यै स्वाहा मामुत्तरेवतु।।
ऊं सर्वशास्त्रवासिन्यै स्वाहैशान्यां सदावतु।
ऊं ह्रीं सर्वपूजितायै स्वाहा चोध्र्वं सदावतु।।
ऐं ह्रीं पुस्तकवासिन्यै स्वाहाधो मां सदावतु।
ऊं ग्रन्थबीजरुपायै स्वाहा मां सर्वतोवतु।।
॥ फल-श्रुति ॥ 
इति ते कथितं विप्र ब्रह्ममन्त्रौघविग्रहम् । 
इदं विश्वजयं नाम कवचं ब्रह्मरुपकम् ॥ 
पुरा श्रुतं धर्मवक्त्रात् पर्वते गन्धमादने । 
तव स्नेहान्मयाऽऽख्यातं प्रवक्तव्यं न कस्यचित् ॥
 गुरुमभ्यर्च्य विधिवद् वस्त्रालंकारचन्दनैः । 
प्रणम्य दण्डवद् भूमौ कवचं धारयेत् सुधीः ॥
पञ्चलक्षजपैनैव सिद्धं तु कवचं भवेत् । 
यदि स्यात् सिद्धकवचो बृहस्पतिसमो भवेत् ॥
महावाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत् ।
 शक्नोति सर्वं जेतुं स कवचस्य प्रसादतः ॥ 
 इदं ते काण्वशाखोक्तं कथितं कवचं मुने । 
स्तोत्रं पूजाविधानं च ध्यानं वै वन्दनं तथा ॥ 
॥ इति श्रीब्रह्मवैवर्ते ध्यानमन्त्रसहितं विश्वविजय-सरस्वतीकवचं सम्पूर्णम् ॥
पंडित पंकज मिश्र ज्योतिष।।

Comments

Popular posts from this blog

मर्यादा पुरुषोत्तम भगवान श्रीराम की जन्म कुंडली । Ram Ji ki janmkundali .

विषकन्या योग क्या है . what is vishkanya yog ?

यशस्वी जैसवाल जन्मकुंडली विश्लेषण पंडित पंकज मिश्र ज्योतिष कोलकाता।Yashasvi Jaiswal Horescope by pandit pankaj Mishra Astrologer .